बिल्वाष्टकं

   à¤¬à¤¿à¤²à¥à¤µà¤¾à¤·à¥à¤Ÿà¤•à¤‚


त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधम् ।

त्रिजन्मपाप-संहारमेकबिल्वं शिवार्पणम्।।1।।

 

त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रै: कोमलै: शुभै: ।

शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणम्।।2।।

 

अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे ।

शुद्धयन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम्।।3।।

 

शालिग्रामशिलमेकां विप्राणां जातु अर्पयेत्।

सोमयज्ञ-महापुण्यमेकबिल्वं शिवार्पणम्।।4।।

 

दन्तिकोटिसहस्त्राणि वाजपेयशतानि च ।

कोटिकन्या-महादानमेकबिल्वं शिवार्पणम्।।5।।

 

लक्ष्म्या: स्तनत उत्पन्नं महादेवस्य च प्रियम्।

बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणम्।।6।।

 

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम्।

अघोरपापसंहारमेकबिल्वं शिवार्पणम्।।7।।

 

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।

अग्रत: शिवरूपाय ह्येकबिल्वं शिवार्पणम्।।8।।

 

विल्वाष्टकमिदं पुण्यं य: पठेच्छिवसन्निधौ।

सर्वपापविनिर्मुक्त: शिवलोकमवाप्नुयात्।।9।।

 

इति बिल्वाष्टकं ।।

Share Us On -

Scroll to Top